|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.238. अध्यायः 238
Mahabharata - Adi Parva - Chapter Topics
अर्जुनस्य प्रभासतीर्थगमनम्॥ 1 ॥ तत्र स्मृतिपथागतसुभद्रारूपलावण्यादिकं चिन्तयतोऽर्जुनस्य परिव्राजकवेषस्वीकारेण तस्या हरणे निश्चयः॥ 2 ॥ अर्जुनस्य चिन्तितज्ञानेन हसता श्रीकृष्णेन सह शायिन्या सत्यभामया हासकारणे पृष्टे तां प्रति अर्जुनवृत्तान्तकथनम्॥ 3 ॥ सत्यभामां शयने विहाय एकाकिना श्रीकृष्णेन प्रभासतीर्थंप्रति प्रस्थानम्॥ 4 ॥ चारमुखेन अर्जुनस्य तत्रागमनं श्रुत्वा कृष्णस्य तत्रागमनम्॥ 5 ॥ अर्जुनेन संभाप्य कृष्णस्य द्वारकांप्रति पुनरागमनम्॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-238-0x(1283)(10270)
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च।
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः॥ 1-238-1(10271)
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च।
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्॥ 1-238-2(10272)
`चिन्तयामास रात्रौ तु गदेन कथितं पुरा।
सुभद्रायाश्च माधुर्यरूपसंपद्गुणानि च॥ 1-238-3(10273)
प्राप्तुमं तां चिन्तयामास कोऽत्रोपायो भवेदिति।
वेषवैकृत्यमापन्नः परिव्राजकरूपधृत्॥ 1-238-4(10274)
कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात्।
भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान्॥ 1-238-5(10275)
येनकेनाप्युपायेन प्रविश्य च गृहं महत्।
दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम्॥ 1-238-6(10276)
वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम्।
एवं विनिश्चयं कृत्वा दीक्षितो वै तदाऽभवत्॥ 1-238-7(10277)
त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः।
योगभारं वहन्पार्थो वटवृक्षस्य कोटरम्॥ 1-238-8(10278)
प्रविशंश्चैव बीभत्सुर्वृष्टिं वर्षति वासवे।
चिन्तयामास देवेशं केशवं क्लेशनाशनम्॥ 1-238-9(10279)
केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान्।
शयानः शयने दिव्ये सत्यभामासहायवान्॥ 1-238-10(10280)
केशवः सहसा राजञ्जहाय च ननन्द च।
पुनः पुनः सत्यभामा चाब्रवीत्पुरुषोत्तमम्॥ 1-238-11(10281)
भगवंश्चिन्तयाविष्टः शयने शयितः सुखम्।
भवान्बहुप्रकारेण जहास च पुनः पुनः॥ 1-238-12(10282)
श्रोतव्यं यदि वा कृष्ण प्रसादो यदि ते मयि।
वक्तुमर्हसि देवेश तच्छ्रोतुं कामयाम्यहम्॥ 1-238-13(10283)
श्रीभगवानुवाच। 1-238-14x(1284)
पितृष्वसुर्यः पुत्रो मे भीमसेनानुजोऽर्जुनः।
तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा॥ 1-238-14(10284)
तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः।
सुभध्रां चिन्तयामास रूपेणाप्रतिमां भुवि॥ 1-238-15(10285)
चिन्तयेन्नेव तां भद्रां यतिरूपधरोऽर्जुनः।
यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम्॥ 1-238-16(10286)
येनकेनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम्।
वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम्॥ 1-238-17(10287)
एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः।
छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे॥ 1-238-18(10288)
योगभारं वहन्नेव मानसं दुःखमाप्तवान्।
एतदर्थं विजानीहि हसन्तं मां मुदा प्रिये॥ 1-238-19(10289)
भ्रातरं तव पश्येति सत्यभामां व्यसर्जयत्।
तत उत्थाय शयनात्प्रस्थितो मधुसूदनः॥' 1-238-20(10290)
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्।
तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः॥ 1-238-21(10291)
चाराणां चैव वचनादेकाकी स जनार्दनः।
तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः॥ 1-238-22(10292)
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ॥ 1-238-23(10293)
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने।
आस्तां प्रियसखायौ तौ नरनारायणावृषी॥ 1-238-24(10294)
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत।
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत॥ 1-238-25(10295)
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा।
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः॥ 1-238-26(10296)
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ।
महीधरं रैवतकं वासायैवाभिजग्मतुः॥ 1-238-27(10297)
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्।
पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम्॥ 1-238-28(10298)
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः।
सहैव वासुदेवेन दृष्टवान्नटनर्तकान्॥ 1-238-29(10299)
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः।
सत्कृतं शनं दिव्यमभ्यगच्छन्महामतिः॥ 1-238-30(10300)
ततस्तत्र महाबाहुः शयानः शयने शुभे।
तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्।
आपगानां वनानां च कथयामास सात्वते॥ 1-238-31(10301)
एवं स कथयन्नेव निद्रया जनमेजय।
कौन्तेयोऽपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे॥ 1-238-32(10302)
मधुरेणैव गीतेन वीणाशब्देन चैव ह।
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तता॥ 1-238-33(10303)
स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः।
`वार्ष्णेयं समनुज्ञाप्य तत्र वासमरोचयत्॥ 1-238-34(10304)
तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह।
यतिरूपधरं पार्थं विसृज्य सहसा हरिः।'
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्॥ 1-238-35(10305)
अलङ्कृता द्वारका तु बभूव जनमेजय॥ 1-238-36(10306)
दिदृक्षन्तश्च गोविन्दं द्वारकावासिनो जनाः।
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः॥ 1-238-37(10307)
`क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः।
कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः॥' 1-238-38(10308)
अवलोकेषु नारीणां सहस्राणि शतानि च।
भोजवृष्ण्यन्धकानां च समवायो महानभूत्॥ 1-238-39(10309)
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः।
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः॥ 1-238-40(10310)
कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः।
समानवयसः सर्वानाश्लिष्य स पुनःपुनः॥ 1-238-41(10311)
कृष्णः स्वभवनं रम्यं प्रविवेश महाबलः।
प्रभासादागतं देव्यः सर्वाः कृष्णमपूजयन्॥ ॥ 1-238-42(10312)
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः॥ 238 ॥ ॥ समाप्तं चार्जुनवनवासपर्व ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-238-1 अपरान्तेषु पश्चिसमुद्रतीरेषु॥ 1-238-36 अलंकृता द्वारका तु बभूव जनमेजय। कुन्तीपुत्रस्य पूजार्थमपि निष्कुटकेष्वपि॥ इति च, ज, झ, ञ, ड, पाठः॥ 1-238-37 दिदृक्षन्तश्च कौन्तेयं इति च, ज, झ, ञ, ज, पाठः॥ 1-238-42 कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते। उवास सह कृष्णेन बहुलास्तत्र शर्वरीः॥ इति च, ज, झ, ञ, ड, पाठः॥ अष्टत्रिंशदधिकद्विशततमोऽध्यायः॥ 238 ॥

|
 100000 shlokas.jpg)
|